
शब्दार्थसम्बन्धानामनुशीलनम्
Author(s) -
भोलानारायण Bholanarayan रेग्मी Regmi
Publication year - 2022
Publication title -
kaumodakī
Language(s) - Hindi
Resource type - Journals
eISSN - 2822-1583
pISSN - 2822-1567
DOI - 10.3126/kdk.v2i1.43163
Subject(s) - computer science
प्रस्तुतोऽयं लेखो दर्शनपक्षाऽभिमतवैयाकरणराद्घान्ते सुप्रसिद्घशब्दार्थसम्बन्धानुशीलने नित्यत्वाऽनित्यत्वे च केन्द्रितोऽस्ति ।वस्तुतः प्रस्तावितविषये शब्दस्य व्युत्पत्तिपूर्वकं नित्यत्वानित्यत्वविचारप्रसङ्गे शब्दतत्वमर्थतत्वं तयोः सम्बन्धञ्चा–श्रित्यानुसङ्गिकध्वनिविषये च परिचर्चा विहिता वर्तते । अपारे संसारसागरे जायमानेषु चतुरशीतिलक्ष्यविधेषु जीवेषुमानवमात्राणां व्यवहारकारणीभूर्तोयं शब्दो व्यावहारिकः पारमार्थिकश्च द्विविधोऽपि वैयाकरणातिरिक्तनैयायिकवैशेषिकमीमां–सकालङ्कारिकादितत्तदाचार्याणांञ्चापरिहारिकोऽनुसन्धेयो ज्ञेयश्च, अत एव कः शब्दः ? कोऽर्थः ? तयोः सम्बन्धश्च कीदृशः ?तेषां नित्यत्वं कार्यत्वञ्च तŒवं किमिति स्वाभाविकीं समेषां हृदि जायमानां जिज्ञासामनेनैवानुसन्धानेन परिहर्तुं प्रयते ।