
गण्डकीगौरवकाव्ये शास्त्रप्रभावः
Author(s) -
जगन्नाथ Jagannath रेग्मी Regmi
Publication year - 2022
Publication title -
kaumodakī
Language(s) - Hindi
Resource type - Journals
eISSN - 2822-1583
pISSN - 2822-1567
DOI - 10.3126/kdk.v2i1.43120
Subject(s) - computer science
श्रीकृष्णगण्डकी भगवती भागीरथीव पुराणप्रथिता लोकवन्दिता प्राकृतिकसुषमया सम्पूरिता हिमगिरिप्रसूता नदी ।सरित्प्रवरा, चक्रनदी, गण्डिका, गण्डकी इत्याादीनि अस्या नामानि । इमां सरित्प्रवरामधिकृत्य पन्थीत्युपाह्वेनउमानाथेन गण्डकीगौरवं काव्यं विरचितम् । अस्मिन् अध्ययने पूर्वोक्तकाव्ये शास्त्रप्रभावः कीदृश इति विवेचितोवर्तते । भाषासौष्ठवदृष्ट्या, वस्तुवर्णनदृष्ट्या,शास्त्रान्तरविषयप्रतिपादनदृष्ट्या च काव्यमिदं प्रभावकारि विद्यते ।काव्येऽस्मिन् गण्डकीविषये यत् किमपि वर्णितं तत् पौराणिकीः कथाः समुपजीव्य प्रस्तुतम् । विविधेषु शास्त्रेषुपुराणेषु च स्थितानि गण्डकीसम्बद्धान्युपाख्यानानि संक्षिप्य श्लोकेनैकेन सङ्केतितानि । आवश्यके स्थलेतेषां प्रमाणवचान्यपि टिप्पण्यां प्रदर्शितानि । गण्डक्या महत्वं जानन्तोऽपि नैपालककवयः गण्डकीं विहायगङ्गाया वर्णनेनात्मानं कृतार्थयन्तो दृश्यन्ते स्म । गण्डक्या महिमप्रकाशकस्य काव्यस्याभाव आसीत् । उमानाथकविनागण्डकीगौरवं काव्यं प्रणीय तस्याभावस्य पूर्तिर्विहिता, समाजो बहूपकृतः,नैपालकसंस्कृतकाव्यपरम्परा चसबलीकृतेति गण्डकीगौरवस्य शास्त्रीयं साहित्यिकञ्च महत्वं वर्तत इति अस्याध्ययनस्य सारः ।